Skip to content

मंत्र पुष्पांजली

ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन्‌
ते ह नाकं महिमानः सचंत यत्र पूर्वे साध्याः संति देवाः

ॐ राजाधिराजाय प्रसह्य साहिने
नमो वयं वैश्रवणाय कुर्महे
स मे कामान्‌ काम कामाय मह्यं
कामेश्वरो वैश्रवणो ददातु कुबेराय वैश्रवणाय
महाराजाय नमः

ॐ स्वस्ति साम्राज्यं भौज्यं स्वाराज्यं
वैराज्यं पारमेष्ठ्यं राज्यं महाराज्यमाधिपत्यमयं
समंतपर्यायीस्यात्‌ सार्वभौमः सार्वायुष आं
तादापरार्धात्‌ पृथिव्यै समुद्रपर्यंताया एकेराळिति
तदप्येषः श्लोकोऽभिगीतो मरुतः परिवेष्टारो
मरुतस्यावसन्‌ गृहे
आविक्षितस्य कामप्रेर्विश्वेदेवाः सभासद इति

एकदंताय विद्महे वक्रतुण्डाय धीमहि
तन्नो दंती प्रचोदयात्‌

मंत्रपुष्पांजली समर्पयामि

।। गणपतिबाप्पा मोरया ।।
।। मंगलमूर्ती मोरया ।।